X

न्यायसिद्धान्तमुक्तावल्याः शब्दखण्डः (NyayasiddhantaMuktavalyah Shabdakhandah)

By डॉ शैलेश कुमार तिवारी   |   उत्तराखण्डसंस्कृतविश्वविद्यालय, हरिद्वार
Learners enrolled: 598

अस्य पाठ्यक्रमस्य अध्ययनेन प्रमाणत्वेन अभिमत: शब्द: कीदृश:? पदलक्षणं किम्? पदं कतिविधं भवति? पदार्थ स्वरूपं किम्? का नाम वृत्ति:? शक्ति:का? का नाम लक्षणा? वाक्यस्वरूपं किम्? आकाड्क्षा नाम का? आसत्तिर्नाम का? योग्यता नाम का? तात्पर्यं नाम किम्? समासे शक्तिर्भवति न वा?प्रकृत्यर्थ: प्रत्ययार्थो वा क:? पदार्थानाम् अन्वयप्रकार: क:? शाब्दबोधे कारणं किं किं भवति? शक्तिग्रह: केन केन माध्यमेन भवति? इत्यादिविषयाणां विवेचनकौशलपुरस्सरं सम्यग् ज्ञानं भविष्यति ।
अयं पाठ्यक्रम: व्याकरणशास्त्रस्य अध्ययनं कुर्वतां न्यायशास्त्रस्य अध्ययनं कुर्वतां च कृते महान् उपकारको वर्तत एव, मीमांसावेदान्तसांख्ययोगादिविषयान् भाषाविज्ञानं च आदाय अध्ययनरतानां कृतेsपि महान् उपकारको विद्यते । यतो हि चार्वाक्-बौद्ध-वैशैषिकदर्शनानि विहाय सर्वेष्वपि दर्शनशास्त्रादिषु शब्दप्रामाण्यं स्वीकृत्य शब्दविषयक: प्रभूतो विचार:कृतो वर्तते । अत्यन्तोपयोगित्वादेव न्यायशास्त्रस्य अयं पाठ्यक्रमःसर्वत्र संस्कृत- शिक्षणसंस्थानेषु प्रायः येन केनापि रूपेण स्वीकृतो वर्तते। अस्य अध्ययनेन पूर्वोक्तविषयानां ज्ञानं भविष्यत्येव । तर्कक्षमताया: विचारदक्षताया: चिन्तनसूक्ष्मतायाश्चापि अपूर्व: कश्चन विकासो भविष्यतीति दृढतमो विश्वासो वर्तते ।


Summary
Course Status : Completed
Course Type : Core
Duration : 15 weeks
Category :
  • Humanities and Social Sciences
Credit Points : 4
Level : Postgraduate
Start Date : 15 Jul 2019
End Date : 30 Oct 2019
Exam Date :

Page Visits



Course layout

Week 1 
1- शाब्दबोधपरिचयः 2-पदज्ञानं तु करणम् इति कारिकाव्याख्या  3-वृत्तिः 

Week 2 
4-नानामतदृष्ट्या शक्तिविचारः 5-न्यायशास्त्रदृष्ट्या शक्तिविचारः 6-आधुनिकसंकेते शक्तिविचारः 

Week 3 
7-शक्तिग्रहोपायनिरूपणम्  1 8-शक्तिग्रहोपायनिरूपणम्  2 9-शक्तिग्रहोपायनिरूपणम्  3

Week 4 
10-शक्तिग्रहोपायनिरूपणम्  4 11-शक्तिग्रहोपायनिरूपणम्  5 12-शक्तिग्रहोपायनिरूपणम्  6

Week 5
13- जातिशक्तिवादविचारः , भागः 1 14- जातिशक्तिवादविचारः,  भागः 2 15-जातिशक्तिवादविचारः,  भागः 3

Week 6
16-पदविभागः,भागः1 17- पदविभागः,भागः2 18-लक्षणाविचारः,भागः1

Week 7
19-लक्षणाविचारः,भागः 2 20-लक्षणाविचारः,भागः 3 21-लक्षणाविचारः,भागः 4

Week 8
22-समासे वृत्तिविचारः, भागः 1 23-समासे वृत्तिविचारः,भागः 3 24-समासे वृत्तिविचारः,भागः 4

Week 9
25-समासे वृत्तिविचारः,भागः 5 26-समासे वृत्तिविचारः,भागः 6 27-आसत्तिनिरूपणम्, भागः 1

Week 10
28-आसत्तिनिरूपणम्,भागः 2 29-आसत्तिनिरूपणम्,भागः 3 30-आसत्तिनिरूपणम्,भागः 4

Week 11
31-आसत्तिनिरूपणम्, भागः 5 32-योग्यतानिरूपणम् , भागः 1 33-योग्यतानिरूपणम्, भागः 2

Week 12
34-आकाङ्क्षानिरूपणम् ,भागः 1 35-आकाङ्क्षानिरूपणम्,भागः 2 36-तात्पर्यनिरूपणम् ,भागः 1

Week 13
37- तात्पर्यनिरूपणम् भागः 2 38-तात्पर्यनिरूपणम्,भागः 3

Week 14
39-तात्पर्यनिरूपणम्,भागः

Week 15
 4 40-पुनरावलोकनम् उपसंहारश्च

Books and references


१.      न्यायसिधान्तमुक्तावली, सटीका

२.      व्युत्पत्तिवादः, गदाधरभट्टाचार्यकृतः

३.      शक्तिवादः, गदाधरभट्टाचार्यकृतः

४.      शब्दशक्तिप्रकाशिका, जगदीशतर्कालंकारः

५.      वैयाकरनभूषणसारः, कौण्डभट्ट्ः

६.      लघुमञ्जूषा, नागेशभट्टः

७.      तर्कसंग्रहः (सव्याख्यः), अन्नभट्टाचार्यः

८.      शाब्दबोधमीमांसा, रामानुजताताचार्यः

९.      भारतीयदर्शनम्, चक्रधरशर्मा

१०.  तर्कभाषा, केशवमिश्रः

११.  अर्थसंग्रह, लौगाक्षिभास्करः


Instructor bio

डाँ शैलेश कुमार तिवारी
हरिद्वारे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य
व्याकरणविभागे सहाचार्यः विभागाध्यक्षो
वेदवेदाङ्गसंकायाध्यक्षश्च वर्तते।
इतः पूर्वं जनवरी 2007 तः 4-11-2016यावत् हरिद्वारस्थ- श्रीभगवानदास-आदर्श -संस्कृत-महाविद्यालये व्याकरणविभागे सहायकाचार्य आसीत्। ततः पूर्वं वाराणस्यां गुरुपरम्परानुसारं तत्तद्गुरुभ्यः समधीतव्याकरणन्यायवेदान्तादि-तत्तत्छास्त्रः काशीहिन्दूविश्वविद्यालयतः समुत्तीर्णशास्त्रि-आचार्यादिपरिक्षाकः तत्रैव UGC-JRF.प्राप्नुवन् सम्पादितशोधकार्यः प्रायेण पञ्चवर्षाणि यावत् व्याकरणविभागे अध्यापयत्। अध्ययनकाले वाराणसीस्थ- सार्वभौमसंस्कृत- प्रचारसंस्थाने निवसन् संस्कृतप्रसारप्रसारादिविषयकं नैकविधकार्यमकार्षीत्। संप्रतिराष्ट्रियसंस्कृतसंस्थानेन दूरस्थशिक्षामाध्यमेन संचाल्यमानायाम् आचार्याकक्षायां द्वाविशतिः पाठाः शास्त्रिकक्षायां द्वौ पाठौ च पाठ्यग्रन्थे प्रकाशिताः अध्याप्पमानाश्च सन्ति। अस्य विभिन्नराष्ट्रियान्ताराष्ट्रियपत्रिकासु पंंचत्रिंशदधिक(35+)-शोधनिबन्धा:, अनेकानि पुस्तकानि , व्यासचैनल-ऑनलाइनप्रभृतिमाध्यमेन अध्यापनमुद्दिश्यअनेकानि चित्रांकनानि (वीडियो एपिसोड) ,अनेकानि लेखकाव्यादीनि च प्रकाशितानि सन्ति। Sanskrit Composition and Communication इतिनामकस्य स्नातककक्षायाः(प्रतिष्ठायाः) अर्थात् बी•ए•(ऑनर्स) इत्याख्यकक्षायाः षष्ठसत्रे निर्धारितस्य 4 क्रेडिट इत्यात्मकस्य MOOC इत्यन्तर्गत- ऑनलाइनपाठ्यक्रमस्य समन्वयकः, सुप्रसिद्धःसंस्कृतकविश्च वर्ततेऽयं जनः।

Course certificate

“30 Marks will be allocated for Internal Assessment and 70 Marks will be allocated for external proctored examination”



MHRD logo Swayam logo

DOWNLOAD APP

Goto google play store

FOLLOW US